सुदर्शन चक्र 'कवच'
🌷श्री गणेशाय नमः🌷 🙏श्री गोपीजन वल्लभाय नमः🙏 अथ श्री सुदर्शन 'कवच' ॐ वैष्णवानां हिरक्षार्थं श्री वल्लभनिरुपितः। सुदर्शन महामन्त्रो वैष्णवानां हितावहः॥१॥ मन्त्रामध्येनिरुप्यन्ते चक्राकारं च लिख्यते। उत्तरा गर्भरक्षच परिक्षित हितेरतः ॥२॥ ब्रह्मास्त्र वारणं चैव भक्तानां भय भंजनः। वंध च दुष्ट दैत्यानां खंड खंड च कारयेत् ॥३॥ वैष्णवानां हितार्थाय चक्रं धारयेत् हरिः। पीताम्बरो परब्रह्म वनमाली गदाधरः ॥४॥ कोटि कन्दर्पलावण्यो गोपिका प्राणवल्लभ:। श्री वल्लभः कृपानाथो गिरधरः शत्रुमर्दन:॥५॥ दावाग्नि दर्पहत्ता च गोपी नां भय नाशन:। गोपालो गोप कन्यभिः समावृत्तो ऽ धितिष्टते ॥६॥ ब्रजमंडल प्रकाशीच कालिन्दी विरहानलः। स्वरूपानन्द दानार्थां तापनोत्तर भावनः ॥७॥ निकुंज बिहारमावग्ने देहि मे निजदर्शनं गो गोपिका श्रुत कीर्णो वेणुवादन तत्परः ॥८॥ कामरूपीकला वांश्च कामिन्यां कामदो विभुः। मन्मथ मथुरानाथो माद्यवो मकरध्वजः ॥९॥ श्रीधरः श्रीकरश्चचैव श्री निवासः सताँगति। मुक्तिदो भूक्तिदो विष्णुभुद्यरो भुत भावनः॥१०॥ सर्व दुःख हरो वीरो दुष्टदानव नाश...